वांछित मन्त्र चुनें

स चि॑केत॒ सही॑यसा॒ग्निश्चि॒त्रेण॒ कर्म॑णा । स होता॒ शश्व॑तीनां॒ दक्षि॑णाभिर॒भीवृ॑त इ॒नोति॑ च प्रती॒व्यं१॒॑ नभ॑न्तामन्य॒के स॑मे ॥

अंग्रेज़ी लिप्यंतरण

sa ciketa sahīyasāgniś citreṇa karmaṇā | sa hotā śaśvatīnāṁ dakṣiṇābhir abhīvṛta inoti ca pratīvyaṁ nabhantām anyake same ||

पद पाठ

सः । चि॒के॒त॒ । सही॑यसा । अ॒ग्निः । चि॒त्रेण॑ । कर्म॑णा । सः । होता॑ । शश्व॑तीनाम् । दक्षि॑णाभिः । अ॒भिऽवृ॑तः । इ॒नोति॑ । च॒ । प्र॒ती॒व्य॑म् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.३९.५

ऋग्वेद » मण्डल:8» सूक्त:39» मन्त्र:5 | अष्टक:6» अध्याय:3» वर्ग:22» मन्त्र:5 | मण्डल:8» अनुवाक:5» मन्त्र:5


बार पढ़ा गया

शिव शंकर शर्मा

शत्रु के विनाश के लिये प्रार्थना।

पदार्थान्वयभाषाः - (अग्ने) हे सर्वशक्तिमन् ईश ! (एषाम्) इन हम लोगों के (तनूषु) शरीर में (शंसम्) प्रशंसनीय (वचः) वचन को (नव्यसा) नूतन वचन के साथ बढ़ा। (रराव्णम्) दाताओं के (विश्वाः+अरातीः) सर्व शत्रुओं को (नि) दूर कीजिये। पुनः (इतः) इस संस्था से (आमूरः) मूर्ख (अरातीः) और अदाता (अर्य्यः) शत्रुगण (युच्छन्तु) यहाँ से दूर चले जाएँ। शेष पूर्ववत् ॥२॥
भावार्थभाषाः - हम लोग प्राचीन भाषा और नवीन भाषा दोनों की उन्नति करें और अनाथादिकों को सदा दान किया करें, जो न देवें, उन्हें शिक्षा देकर दानपथ पर लावें ॥२॥
बार पढ़ा गया

शिव शंकर शर्मा

शत्रुविनाशाय प्रार्थना।

पदार्थान्वयभाषाः - हे अग्ने=सर्वशक्ते ! एषाम्=अस्माकम्। तनूषु=शरीरेषु। शंसम्=प्रशंसनीयम्। वचः। नव्यसा=नवतरेण वचसा सह। नि=नितराम्। वर्धय। रराव्णम्=दातॄणामस्माकम्। विश्वाः=सर्वाः। अरातीः=शत्रून्। निदह। पुनः। इतः स्थानात्। आमुरः=आमूढाः। अरातीः=अरातारः=अदातारः। अर्य्यः=अरयः शत्रवः। युच्छन्तु=गच्छन्तु। शेषं पूर्ववत् ॥२॥